Top
पत्राचारद्वारा संस्कृतम् पाठ्यक्रमाः

पञ्जीयनप्रक्रिया पत्राचारद्वारा संस्कृतस्य आनलाईनपञ्जीयनार्थं - अत्र नुदतु
पत्राचारद्वारा संस्कृतस्य दृश्यपाठानां निमित्तं - अत्र नुदतु


परिचयः -:

एषः पत्राचारद्वारा संस्कृतपाठ्यक्रमः भवतः गृहे उपविश्य सौलभ्यानुगुणं संस्कृतं पठितुं निर्मितः अस्ति। अत्र ४ स्तराः सन्ति। प्रतिस्तरं ६ मासात्मकः अवधिः। ते चत्वारः स्तराः
प्रवेशः (Pravesha)
परिचयः(Parichaya)
शिक्षा (Shiksha)
कोविदः (Kovida)

चतुर्णां स्तराणां समाप्तेः अनन्तरं भवान् /भवती संस्कृतवाङ्मयं काव्यानि, भगवद्गीताम्, अन्यदर्शनग्रन्थान् च पठितुम् अपेक्षितज्ञानं प्राप्स्यति। अपि च भवान् सरलसंस्कृतेन वक्तुं लेखान् लेखितुं च प्रभविष्यति।
यद्यपि अनिवार्यता नास्ति तथापि सूचयामः यत् अत्र प्रवेशात् पूर्वं दशदिनसंस्कृतसम्भाषणशिबिरे अवश्यमेव भागं स्वीकरोतु।


एषः पाठ्यक्रमः १६ वर्षायुसीमातः उपरिवयोपरिमितानां कृते रचितः। अत्र पूर्वयोग्यता कापि अपेक्षिता नास्ति। पाठ्यपुस्तकानि पत्राचारमाध्यमेन भवतः सङ्केतं प्रति प्रेषयामः।
प्रतिपाठ्यक्रमम् अन्ते मूल्याङ्कनाय संस्कृतभारत्या काचित् परीक्षा सञ्चाल्यते। तत्र उत्तीर्णेभ्यः प्रमाणपत्रं प्रदीयते।
स्पष्टोच्चारणज्ञानार्थं संस्कृतभारत्या प्रवेश-परिचयपाठ्यक्रमयोः निमित्तं श्रव्यसान्द्रमुद्रिका (आङ्ग्लमाध्यमस्य) प्रकाशिता। एकस्याः सन्द्रमुद्रिकायाः मूल्यं रू.75/- (रू.125/- पत्राचारव्ययः अतिरिक्तः )


मुख्यसूचना


पाठ्यक्रमस्य माध्यमाः – कन्नड, आङ्ग्ल, हिन्दी, मराठी, गुजराती, तमिल, मलयाल, तेलुगु, असमिया, बङ्गला, उडिया (11 माध्यमेषु )
सम्भाषणशिबिरे भागग्रहणं लाभाय भवेत्, किन्तु अनिवार्यता नास्ति।
आयुः - न्यूनातिन्यूनम् 16 वर्षाणि.

अवधिः (प्रतिस्तरम्) - 6 मासाः
शुल्कम् (प्रतिस्तरम्) - रू.300/- ( पाठ्यक्रम-परीक्षाशुल्कसहितम् )
परीक्षासमय - वर्षे द्विवारम् ( फरवरीमासे अगस्तमासे च )
प्रवेशः

अस्मिन् स्तरे भवान्/भवती ज्ञास्यति ....

  1. संस्कृतभाषायां देवनागरीलिप्यां च प्रवेशः।
  2. शब्दसम्पत्तेः अभिवर्धनम्।
  3. दैनन्दिनव्यवहारे विचाराणां संस्कृतेन व्यक्तीकरणम्।
  4. सरलसंस्कृतसम्भाषणार्थम् अपेक्षितस्य सामान्यव्याकरणस्य अवगमनम्।
  5. संस्कृतश्लोकेषु प्रयुक्तानाम् अधिकाधिकपदानाम् अवगमनम्।

परिचयः

अस्मिन् स्तरे भवान्/भवती ज्ञास्यति ....

  1. कालाः प्रयोगाश्च ।
  2. अच्सन्धेः परिचयः।
  3. संस्कृतवाङ्मयस्य परिचयः ।
  4. पद्यान्वयः ।



शिक्षा

अस्मिन् स्तरे भवान्/भवती ज्ञास्यति ....

  1. कृत्प्रत्ययाः।
  2. प्राथमिकगद्य-पद्यलेखनप्रकाराः ।
  3. विभिन्नविभक्तीनां प्रयोगः।
  4. प्रगतव्याकरणम् ।
  5. सन्धयः।
  6. संस्कृते लेखनकौशलम्।

कोविदः

अस्मिन् स्तरे भवान्/भवती ज्ञास्यति ....

  1. समासपदनिर्माणं तस्य विग्रहरचना ।
  2. अलङ्कारशास्त्रस्य परिचयः ।
  3. छन्दसां ज्ञानम् ।
  4. प्राचीन-आधुनिकसंस्कृतकवीनां परिचयः ।
  5. ऋषीणां तेषां जीवनस्य आविष्काराणाञ्च पठनम् ।


पञ्जीयनप्रक्रिया


पत्राचारद्वारा संस्कृतस्य आनलाईनपञ्जीयनार्थं - नुदतु

पत्राचारद्वारा संस्कृतस्य दृश्यपाठानां निमित्तं - नुदतु

पञ्जीयनान्तरम् अधिकविवरणार्थं परीक्षा-पाठ्यपुस्तकादिविवरणार्थं भवतः/भवत्याः माध्यमभाषासम्बद्धकार्यालयं प्रति साक्षात् पृच्छन्तु। सम्पर्कसूत्रम् अत्र दत्तम् अस्ति। - सम्पर्कः

अधिकविवरणार्थम् ई-पत्त्रं प्रेषयन्तु - samskritamdelhi@gmail.com

 ##संस्कृतसप्ताहप्रचाराभियानम् ३१ जुलैतः दि. ६ ऑगस्ट,  ##युरेका सायन्स क्लब तथा संस्कृतभारतीद्वारा छात्रवर्ग ,  ##आदिकवि-वाल्मीकि-जयन्ती-कार्यक्रमः,  ##महर्षी वाल्मीकी जयंती,  ##विश्वसम्मेलनम्,  ## कश्मीर की विद्वत्परम्परा संगोष्ठी कानपुर,  ##KNOW THE PATANJALI’S IDEAL!,  ##गुजरातविश्वविद्यालये सम्पन्ना “भविष्याय संस्कृतम्” इति राष्ट्रियसङ्गोष्ठी,  ##देहल्यां संस्कृतभारत्याः अन्ताराष्ट्रियकार्यालयस्य शिलान्यासः भूमिपूजनं च जातम्,  ##देहल्यां प्रान्तसंस्कृतसम्मेलनस्य सिद्धतायां संलग्नाः कार्यकर्तारः,